Shaktipeethas in Lalitopakhyanam
Shaktipeethas in Brahmanda Puran
ततः पीठानि पचाशदेकं च क्रमतो न्यसेत् ।
कामरूपं वारणासी नेपाल पौण्ड्रवर्धनम् ॥
वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ॥
कैलासं भृगुनगरं केदारं चन्द्रयुक्पुरम् ।
श्रीपीठ चैकवीरं च जालन्धं मालवं तथा ॥
कुळानं देविकोर्ट व गोकर्ण मारुतेश्वरम् ।
अट्टहासं च विरजं राजगेहमहापथे ॥
कोलापुरमेलापुरं कालेश्वरं जयन्तिका ।
उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥
उड़ीशं च प्रयागं च षष्टिमायापुरं तथा ।
गौरीशं मलयगिरिं श्रीशैलं मेरुमेव च ॥
पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।
स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥
पुरोड्याणं तथा छाया छत्रमाहुर्मनीषिणः ।
लिपिक्रमसमायुक्त लिपिस्थानेषु विन्यसेत् ॥
Jaya Shivapriya Vaishno Devi.🙏
ReplyDelete🙏🏻🙏🏻
Delete