Dhyana Shlokas of Shiva and his forms

 Dhyan Mantras of the deities of Shaivism.


Dhyan Mantras in Devnagari script. 


All Dhyan Mantras have been collected by Ayantik Basu. 


।। शैव ध्यानमाला ।।


Shaiva Dhyanmala ( The garland of the dhyan mantras of Shaivism)


©️ All rights reserved ©️


Shri Aghormurti Dhyan Mantra 

श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये देवं सुधास्रविणमिन्दुकलाधरं च । शुद्धाक्षसूत्रकलशामृतपद्महस्तं देवं भजामि हृदये भुवनैकनाथम् ॥

Shri Batuk Bhairav Dhyan Mantra 

करकलित-कपालः कुण्डली दण्डपाणि-स्तरुणतिमिरनोलो व्यालयज्ञोपवीती ।

ऋतु समयसपर्या विघ्नविच्छित्तिहेतु-जयति बटुकनाथः सिद्धिदः साधकानाम् ॥

Shri Bhikshatana Dhyan Mantra 

Bhikshatana Shiva
                        Bhikshatana Artwork


शुक्लापं शुभलोचनं दूर्वांकुरं दक्षिणे वामे शूल-कपाल-सम्युतकरं सत्पादुकं पादयोः । 

लम्बत्पिङ्ग जटाधरं शशिधरं दक्षे मृगं वामे भिक्षा-पात्रधरं सकुण्डपिठरं भिक्षाटनेशं भजे ॥

Shri Bhikshatana Dhyan Mantra ( As per Karanagama )



चतुर्भुजं त्रिणेत्रं च नग्नं चैव स्मिताननम् । भस्मदिग्धं विद्रुमाभं कट्यां पन्नगसंवृतम् ।। 

आवृतालंकृतं भङ्गी पादे पादुकसंयुतम् । दक्षिणं तु कराग्रं तु हरिणस्यानुगं भवेत् ।।

दक्षिणे परहस्ते तु डमरुं चैव कारयेत् । तु वामे त्वपरहस्ते तु त्रिशूलं पिञ्छधारिणम् ।।

कुञ्चितं दक्षिणं पादं वामपादं तु सुस्थितम् । सम्भङ्गिस्थानंकं च गमनोन्मुखरूपकम्ं ।।

 कपालोपेतहस्तं च वृषनाभिसमं भवेत् । एवं भिक्षाटनं प्रोक्तं गुण्डोदरमथ शृणु ।।

Shri Chakra Pradar Dhyan Mantra 

विष्णुस्वी पुरस्थितो रंजलिकरो देवस्य पादाब्जयोः अभ्यर्च्याक्षिलसत् सहस्रकमलम् सम्प्राप्तवान् ईश्वरात् । यस्माच्चक्रमतोवरम् पशुपतेः पद्माक्ष इत्याज्ञया टंकम् कृष्णमृगम् वरम् परकरात् चक्रप्रदम् तम् भजे ॥

Shri Ekapada Dhyan Mantra 

Ekapada Shiva


ध्यायेत् कोटिरविप्रं त्रिनयनं शीतांशु-गंगाधरं हस्ते टंकं मृगं वराभयकरं पादैकयुक्तं विभुम् । 

शम्भोर्दक्षिण वामगक्षभुजयोर् ब्रह्माच्युताभ्यांयुतं तत्तल्लक्षणमायुधैः परिवृतं हस्तत्वयाट्याञ्जलिम् ॥

Shri Kedarnath Dhyan Mantra 

 देवं त्रिजटत्रिलोचनयुतं त्रेताग्निकान्ति प्रभु पञ्चास्यं शरयुग्मवाहुममलमाशीविपाभूषणम् ।

खट्वाङ्ग त्रिशिखं कुठारडमरूपाशं कपालाङ्कुशंपद्म चाक्षधनुः कमण्डलुधरं केदारनाथं नमः।।

Shri Kalantaka Shiva Dhyan Mantra 


(Artist : Raja Ravi Varma ) 

सिन्दूरापरं त्रिनेत्रं युगभुज-सहितं ह्युत्रुतं शूलहस्तं पाशं सुशिवहन्तं परशुंपितथा भीष्मदंष्ट्रं सुवक्त्रम् । 

पादं कुञ्चित वाममुत्थेरुततलं कालस्य वक्शस्थले न्यस्त्वा पिङ्ग जटाधरं पशुपतिं कालान्तकं नौम्यहम् ॥

Shri Nataraja Dhyan Mantra 


Chidambaram Nataraja by Thillai Nathan

ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां देवीं सभेशं भजे ॥ 

Shri Mallari Dhyan Mantra 

ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं श्वेताश्वं खड्गहस्तं विबुधबुधगणैः सेव्यमानं कृतार्थैः । युक्ताघ्रिं दैत्यमूर्घ्नीडमरुविलसितं नैशचूर्णाभिरामं नित्यं भक्तेषुतुष्टं श्वगणपरिवृतं वीरमोङ्कारगम्यम् ॥

Shri Mahakala Dhyan Mantra 

श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥ 

भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥ 

विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥

Shri Mrityunjaya Dhyan Mantra 

उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं ॐ जुं सः भुवनैकसृष्टिप्र(वि)लयोद्भूत्येकरक्षाकरम् । श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥

Shri Tripurantaka Dhyan Mantra 

Tripurantaka Shiva

( Artist : Manivelu )

रक्तापं परिपूर्ण-चन्द्रवदनं कृष्णं मृगं कार्मुकं वामे सव्यकरे शरञ्च तथतं टंकञ्च देव्यायुतम् । 

गंगा-चन्द्रकलाधरं हरि-विरिञ्चाद्यैस्सदासेवितं हासैर्दग्ध-पुरत्रयं त्रिभुवनाधीशं पुरारिं भजे ॥

Shri Mrityunjaya Dhyan Mantra 

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् । 

अङ्कन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥

Shri Panchanan Shiv Dhyan Mantra 

ध्यायेनित्यं महेशं रजतगिरिनिभं चारूचंद्रावतंसम्। 

रत्नकल्पोज्वलांगं परशुमृगवराभितिहस्तं प्रसन्नम्।।

पद्मासिनं समन्तात स्तुतममरगणेर्व्याघ्रकृतं वसानम्। 

 विश्वाद्यं विश्वबिजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्।।

Shri Pashupati Dhyan Mantra ( As per Meru Tantra)

पञ्चवक्त्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम् ।

अग्निज्वालानिभश्मश्रुमूर्द्धजं भीमदंष्ट्रकम् ॥ २८७॥

खड्गं बाणानक्षसूत्रं शक्तिं परशुमेवदधानं दक्षिणैर्हस्तैरूर्ध्वादिपरैः ॥ 

खेटचापौकुण्डिकां च त्रिशूलं ब्रह्मदण्डकम् ।

नानाभरणसन्दीप्तं बालचन्द्रैरलंकृतम् ॥ २८९॥

Shri Virbhadra Dhyan Mantra 

रौद्रं रुद्रावतारं हुतवहनयनं चोर्ध्वकेशं सुदंष्ट्रं भीमाङ्गं भीमरूपं किणिकिणिरभसं ज्वालमालाऽऽवृताङ्गम् । भूतप्रेतादिनाथं करकमलमहाखड्गपात्रे वहन्तं वन्दे लोकैकवीरं त्रिभुवननमितं श्यामलं वीरभद्रम् ॥ 

Shri Virbhadra Dhyan Mantra ( As per Karanagama)

चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् । दक्षिणे खड्गबाणौ च वामे चापगदाधरम् ।।

 दंष्ट्राकरालवदनं भीमं भैरवगर्जितम् । रुण्डमालासमायुक्तं पादुकोपरि सुस्थितम् ।।

भद्रकालीसमं खङ्गं कपालं पादुके न्यसेत् ।

Shri Sadashiva Dhyan Mantra 

मुक्तापीतपयोदमौक्तिकजपावर्णैर्मुखैः पञ्चभि-स्त्र्यक्षैरञ्जितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् ।

शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥

Shri Kankal Murti Dhyan Mantra 

भस्मलेपं त्रिपुण्ड्रं रुचिरमणिलसत्पिञ्छकङ्कालदक्षं टङ्कं वामे कराब्जे दधतमखिलसत्सान्द्रसिन्दूरशोभम् | शूलं कृष्णमृगास्यलम्बितकरं बद्धेन्दुचूडाहरं वन्दे देववृषेश्वरैः परिवृतं वैय्याघ्रचर्माम्बरम् || चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् । पादे पादुकसंयुक्तं किञ्चिद्वै गमनोन्मुखम् || सर्वाभरणसंयुक्तं यज्ञसूत्रोत्तरीयकम् । शङ्ख तु वामकर्णे तु दक्षिणे नक्रकुण्डलम् ||किञ्चित्प्रहसितास्यं च नानालीलासमावृतम् । छुरिकां दक्षकट्यां तु दधानं भूतसंयुतम् || भिक्षान्नमोचनायातमृगपक्ष्यादिसंयुतम् । देवस्य वामपार्श्वे तु महाभूतं प्रकल्पयेत् || द्विभुजं च द्विनेत्रं च करालवदनान्वितम् । कपालं शिरसि न्यस्य देववामे तु संस्थितम् । एवं कङ्कालमाख्यातं चण्डेशानुग्रहं शृणु ॥

Shri Tatpascharya Gauri Dhyan Mantra 

श्यामां त्रिणेत्रां द्विभुजां त्रिभङ्गीं सव्यापसव्यस्थितकुञ्चितांघ्रिम् । सव्ये तु नीलोत्पलचारुहस्तां देवस्य वामस्थितपद्मपीठाम् ।।

Shri Uma Maheshwara Dhyan Mantra 

धवलाभसुखासनदेवियुतं मृगशिशुटङ्कवराभयहस्तम् । सुमुखीकृतमुत्पलदृग्वरदम् उमया सह देव सरूपमिदम् ।।

Shri Somaskandha Murthy Dhyan Mantra 



उद्यत् भानुनिभम् चतुष्करयुतम् केयूरहारैर्युतम् दिव्यम् वस्त्रधरम् जटामकुटिनम् संशोभि नेत्रत्रयम् । 

वामे गौर्युतम् सुगन्धमुभयोर मध्ये कुमारम् स्थितम् सोमास्कंद विभुम् मृगाभयवरम् टंकम् तथानम् भजे ॥

Shri Shankar-Narayan Dhyan Mantra 

ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात् बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् । व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं गौरीलक्ष्मीसमेतं स्पटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥

Shri Sharabha Dhyan Mantra ( Akash bhairav kalpa)



Shri Sharabha Idol by Yethin Nagesh

चन्द्रार्कौ वह्निदृष्टिः कुलिशवरनखश्चञ्चलात्युग्रजिह्वः काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः । ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः संहर्ता सर्वशत्रून्स जयति शरभः सालुवःपक्षिराजः ॥

Shri Sharabha Dhyan Mantra ( Akash bhairav Tantra )

क्वाकाशः क्व समीरणः क्व दहनः क्वापः क्व विश्वम्भरः क्व ब्रह्मा क्व जनार्दनः क्व तरणिः क्वेन्दुः क्व देवासुराः । कल्पान्ते शरभेश्वरः प्रमुदितः श्रीसिद्धयोगीश्वरः क्रीडानाटकनायको विजयते देवो महासालुवः ॥

Shri Shivagana Dhyan Mantra 

पूर्वे प्रमथनाथश्च आग्नेय्यां त्रिपुरान्तकः । दक्षिणे कालनाशश्च नैरृत्यां सर्पभूषणः ॥ पश्चिमे वामदेवश्च वायव्यां कामसंहरः । उत्तरे च विरूपाक्षः ईशान्यामीश्वरस्तथा ॥ आकाशे वयोमकेशश्च पाताळे त्रिजगत्पतिः । पञ्चवक्त्रं दशभुजं त्रिनेत्रं चन्द्रभूषणम् । उमालिङ्गितवामाङ्गं ध्याये सर्वेश्वरं शिवम् ॥

Shri Shiva Dhyan Mantra ( Rudrayamal Tantra)

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां वरडमरुयुतं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

Shri Shiv Dhyan Mantra ( Padma Puran)

कैलासाद्रिनिभं शशाङ्ककलया स्फूर्जज्जटामण्डलं नासालोकनतत्परं त्रिनयनं वीरासनाध्यासितम् । मुद्राटङ्ककुरङ्गजानुविलसद्बाहुं प्रसन्नाननं कक्ष्याबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ १॥ 

शुद्धस्फटिकसङ्काशं त्रिनेत्रं चेन्दुशेखरम् । पञ्चवक्त्रं महाबाहुं दशबाहुसमन्वितम् ॥ २॥ 

भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । परिपूर्णं परानन्दं परं ज्योतिः परात्परम् ॥ ३॥ 

पराशक्त्या श्रिया सार्धं परमानन्दविग्रहम् । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । श्रीरुद्रं सच्चिदानन्दं ध्यायेत् सर्वात्मसिद्धये ॥ ४॥

Shri Shiv Dhyan Mantra ( Shiv Rahasya )

ध्यायेदिन्दुकलाधरं गिरिधनु सोमाग्निफालोज्ज्वलं वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् । वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥

Shri Sadyojata Mahakala Dhyan Mantra 



महाकालं यजेदेव्या दक्षिणे धूम्रवर्णकम्। 

विभ्रतं दण्ड-खट्टाङ्गौ दंष्ट्राभीममुखं शिशुम्। ।

व्याघ्रचर्मावृतकटिं तुन्दिलं रक्तवाससम्। 

त्रिनेत्रमूर्धकेशञ्च मुण्डमालाविभूषितम् । 

जटाभारलसच्चन्द्र-खण्डमुग्रं जलन्निभम्। ।

Shri Arunagiri Dhyan Mantra 

अरुणगिरिरिहेड्यः स्कन्द सत्कीर्तिसूक्ति- प्रकटितनिजभक्तिः निस्पृहः शुद्धसत्वः । अनुदिनमगजातासूनुधामाटनोद्यद्- रतिरखिल सुपूज्यः साञ्जलिर्भूतिभूषः ॥

Shri Dakshinamurthy Dhyan Mantra 1 ( As per Sharada Tilaka tantra)

हेमाचलतटे रम्ये सिद्धकिन्नरसेविते ।

विविधद्रुमशाखाभिः सर्वतो वारितातपे ॥ १॥

सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमैः शिलाविवरनिर्गच्छन्निर्झरानिलसेविते॥ २ ॥

गायद्भृङ्गाङ्गनासङ्घ नृत्यद्बर्हिकदम्बके ।

कूजत्कोकिलसङ्गेन मुखरीकृतदिङ्मुखे ॥ ३॥

परस्परविनिर्मुक्तमात्सर्यमृगसेविते ।

आद्यैः शुकाद्यैर्मुनिभिरजस्त्रं समुपस्थिते ॥ ४ ॥

पुरन्दरमुखैर्देवैः सेवायातैर्विलोकितम् ।

वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् ॥ ५ ॥

गारुत्मतमयैः पत्रैर्निविडैरुपशोभितम् ।

नवरत्नमयाकल्पैर्लम्बमानैरलङ्कृतम् ॥ ६ ॥

जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृतम् । 

शृण्वद्भिर्वेदशास्त्राणि शुकवृन्दैर्निषेवितम् ॥ ७ ॥ संसारतामविच्छेदकुशलच्छायमद्भुतम् ।

विचिन्त्य तस्य मूलस्थे रत्नसिंहासने शुभे ॥ ८ ॥

आसीनममिताकल्पं शरच्चन्द्रनिभाननम् ।

स्तूयमानं मुनिगणैर्दिव्यज्ञानाभिलाषिभिः ।

संस्मरेज्जगतामाद्यं दक्षिणामूर्त्तिमव्ययम् ॥ १८

Shri Dakshinamurthy Dhyan Mantra 2 ( As per Sharada Tilaka tantra)

स्फटिकरजतवर्णं मौक्तिकीमक्षमाला- ममृत कलशविद्याज्ञानमुद्राः करायैः । 

दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्त्तिमीडे ॥

Shri Dakshinamurthy Dhyan Mantra 



Shri Dakshinamurthy by Sagar Varma

मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं ।

वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः ।।

आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं ।

स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ।।१।।

वटविटपि समीपे भूमिभागे निषण्णं । 

सकल मुनिजनानां ज्ञानदातारमारात्।।२।।

त्रिभुवन- गुरुमीशं दक्षिणामूर्तिदेवं । 

जननमरणदुःखच्छेद दक्षं नमामि।।३।।

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा । 

गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ।।४।।

Shri Kaalbhairav Dhyan Mantra 


Kaalbhairav Artwork

ॐ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ १॥ 

अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बर परिग्रहम् ॥ २॥ 

दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ३॥ 

दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमशिपाशं च शूलं दक्षिणभागतः ॥ ४॥ 

डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेय समन्वितम् ॥ ५॥

Shri Chandrashekhara Dhyan Mantra 

Chandrashekhara Shiva


अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । 

श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ १॥ 

श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् । 

पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ २॥

Shri Asitanga Bhairava Dhyan Mantra 

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥

Shri Ruru Bhairava Dhyan Mantra 

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् । भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥

Shri Chanda Bhairava Dhyan Mantra 

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् । शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥

Shri Krodh Bhairava Dhyan Mantra 

उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे । नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥

Shri Unmattha Bhairava Dhyan Mantra 

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् । चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥

Shri Kapal Bhairava Dhyan Mantra 

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च । दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥

Shri Bhishana Bhairava Dhyan Mantra 

त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् । कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥ सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् । रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् । नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥ नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् । नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥ नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् । किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ 

Shri Samhara Bhairava Dhyan Mantra 

एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा । डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥ धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा । वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥ नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् । कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥ श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् । सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥

Shri Rudra Dhyan Mantra 

नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् । घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥

References:- 


Sharada Tilaka Tantra 

Rudrayamal Tantra 

Sanskrit Documents 

Ekadas Rudra by Gitapress 

Stotranjali by Bharat Sevashram Sangha

Shiv Rahasya 

Padma Puran

Meru Tantra

Akash Bhairav Tantra 

Comments

Popular posts from this blog

108 Shaktipeethas

Jogulamba Ashtottara Shatanamavali

Shaktipeethas In Manthan Bhairav Tantra