Jogulamba Ashtakam in Hindi

 Jogulamba Ashtakam ( जगुलाम्बा अष्टकम् ) 

Introduction:- Jogulamba is a ferocious from of Adi parashakti. Her temple is situated at Alampur, in Andhra Pradesh. It is a Shaktipeeth. According to Adi Shankaracharya's Stotra, Alampur Shaktipeeth is one of the 18 Mahashaktipithas. Here is her stotra.

Jogulamba Temple Alampur


Jogulamba Ashtakam in Hindi 

महायोगिपीठस्थले तुङ्गभद्रा-

-तटे सूक्ष्मकाश्यां सदासंवसन्तीम् ।

महायोगिब्रह्मेशवामाङ्कसंस्थां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥




ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल

प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् ।

सुकाश्मीररेखाप्रभाख्यां स्वफाले

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥


स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां

रसत्कज्जलालिप्त पद्माभनेत्राम् ।

परां पार्वतीं विद्युदाभासगात्रीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥


घनश्यामलापादसंलोक वेणीं

मनः शङ्करारामपीयूषवाणीम् ।

शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥


सुधापूर्ण गाङ्गेयकुम्भस्तनाढ्यां

लसत्पीतकौशेयवस्त्रां स्वकट्याम् ।

गलेरत्नमुक्तावलीपुष्पहारां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ५ ॥


शिवां शाङ्करीं सर्वकल्याणशीलां

भवानीं भवाम्भोनिधेर्दिव्यनौकाम् ।

कुमारीं कुलोत्तारणीमादिविद्यां

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् || ६ ||


चलत्किङ्किणीं नूपुरापादपद्मां

सुरेन्द्रैर्मृगेन्द्रैर्महायोगिबृन्दैः ।

सदा संस्तुवन्तीं परं वेदविद्भिः

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ७ ॥


हरेः सोदरी हव्यवाहस्वरूपां

प्रसन्नां प्रपन्नार्तिहन्त्री प्रसिद्धाम् ।

महासिद्धिबुद्ध्यादिवन्द्यां परेशीं

शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ८ ॥


इदं जोगुलाम्बाष्टकं यः पठेद्वा

प्रभाते निशार्धेऽथवा चित्तशुद्धिः ।

पृथिव्यां परं सर्वभोगांश्च भुक्त्वा

श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९

||


इति श्री जोगुलाम्बाष्टकम् ।


Comments

Popular posts from this blog

Shaktipeethas in Brihad Nila Tantra

Dhyana Shlokas of Shiva and his forms

108 Shaktipeethas