Dhyana Shlokas of Vishnu and his forms
Dhyan Mantras of the deities of Vaishnavism.
Dhyan Mantras in Devnagari script.
All Dhyan Mantras have been collected by Ayantik Basu.
।। वैष्णव ध्यानमाला ।।
Vaishnav Dhyanmala ( The garland of the dhyan mantras of Vaishnavism)
©️ All rights reserved ©️Shri Vishnu Dhyan Mantra ( Mahabharat Book)
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
Shri Vishnu Dhyan ( Narad Pacharatra Book)
भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदरांघ्रि- श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलं मण्डितांसम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदलमलं पीतकौशयवासो - विद्युद्भासं समुद्यद्दिनकरसदृशं पद्महस्तं नमामि ॥ १॥
Shri Vishnu Dhyan Mantra ( Skanda puran)
सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् । व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥
Shri Narayan Dhyan Mantra
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय । पश्चाद्वाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे देवीभूषादिजुष्टो जनयतु जगतां शर्म वैकुण्ठनाथः ॥
Shri Vitthal Dhyan Mantra
इष्टिकायां समपदं तिष्ठन्तं पुरुषोत्तमम् । जङ्घजस्थकरद्वन्द्वं क्षुल्लकादामभूषणम् ॥ १॥
सव्यासव्यकरोद्भासिपद्मशङ्खविभूषितम् । दरहासस्मेरमुखं शिक्यस्कन्धं दिगम्बरम् ॥ २॥
सर्वालङ्कारसंयुक्तं ब्रह्मादिगणसेवितम् । ज्ञानानन्दमयं देवं ध्यायामि हृदि विठ्ठलम् ॥ ३
Venkateswara ( Tirupati) Dhyan Mantra
भास्वच्छंद्रमसौ यदीयनयने भार्या यदीया रमा यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान् तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥
Shri Krishna Dhyan Mantra ( As per Brahmanda Puran )
वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥
Shri Krishna Dhyan Mantra ( Gargasamhita )
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं विधुमुखकृतकेशं कौस्तुभापीतवेशम् । मधुररवकलेशं शं भजे भ्रातृशेषं व्रजजनवनितेशं माधवं राधिकेशम् ॥
Shri Krishna Dhyan Mantra ( Vishnu Dharmottara )
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् । केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १॥
क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले । कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनरतं दिव्यांगभूषं भजे ॥ ३॥
Shri Jagannath Dhyan Mantra
फुल्लेन्दी वर लोचनम् जनघन श्यामाभिरामाकृति।
विश्वेशं कमला विलासविन सयादार विन्दद्वयम्।।
दैतारीं कमलेन्दु मण्डित मुखं चक्राब्ज हस्त द्वयं ।
वन्दे श्री पुरुषोत्तमम् प्रतिदिनं लक्ष्मी निवासालयाम्। ।
Shri Jagannath Dhyan Mantra ( As per Shesha Samhita)
शङ्खचक्रधरं देवं सर्वाभरणभूषितम् । पीताम्बरधरं सौम्यं जगन्नाथं सदा भजे ॥
Shri Gandaverunda ( Bherunda ) Dhyan Mantra
वन्देऽहं क्रूरघोरप्रबलतरमहागण्डभेरुण्डसिंह- व्याघ्राश्वक्रोडशाखामृगवरखगराड्भल्लुकाद्यष्टवक्त्रम् । द्वात्रिंशत्कोटिबाहुं हलमुसलगदाशङ्खचक्रादिहेतीः बिभ्राणं भीमदंष्ट्रं शरभखगगजान् भक्षयन्तं नृसिंहम् ॥
Shri Garuda ( mount of Vishnu ) Dhyan Mantra
स्वर्णाभजानुं हिमतुल्यसक्थिमाकण्ठरक्तं परिनीलकेशम् । नीलाग्रनासं हरिताम्बराढ्यं सुपर्णमीडेऽमृतकुम्भहस्तम् ॥
Shri Guruvayur Dhyan Mantra
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥
यत्त्रैक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रुपमाश्चर्यतो- ऽप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥
Shri Gopal Dhyan Mantra
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥ सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम् गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥ १॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥ गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ २॥
Shri Balaram Dhyan Mantra ( According to Gargasamhita)
स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं चलदलककपोलं कुण्डलश्रीमुखाब्जम् । तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं हलमुसलविशालं कामपालं समीडे ॥
Shri Balabhadra Dhyan Mantra
श्वेतवर्णमुदाराङ्गं मुसलं च हलं धरम् । मुक्ताभरणभूषाङ्गं बलराममहं भजे ॥
Shri Ramchandra
Shri Ram Dhyan Mantra ( Ananda Ramayana)
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलस्पर्धि नेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ १॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनेसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥२ ।।
Shri Ram Dhyan Mantra 2 ( As per Ananda Ramayana)
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ।
Shri Ramchandra Dhyan Mantra ( As per Anadiradhivas)
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १॥
मण्डलं नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २॥
Shri Ramchandra Dhyan Mantra ( Brahmayamala Tantra )
नीलेन्दीवरतुल्यश्यामवदनं पीताम्बरालङ्कृतम् मुद्रां ज्ञानमयीं दधानमपरां पद्मासने संस्थिताम् । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवम् पश्यन्तीं मुकुटां गदादि विविधैः कल्पोज्वलाङ्गं भजे ॥
Shakti Swaroop
Shri Radha Dhyan Mantra
हेमाभां द्विभुजं वराभयकरां नीलाम्बरेणादृतां श्यामक्रोडविलासिनीं भगवतीं सिन्दूरपुज्जोज्ज्वलाम्।
लोलाक्षीं नवयौवनां स्मितमुखीं बिम्बाधरां राधिकां नित्यानन्दमयीं विलासनिलयां दिव्यांगभूषां भजे।।
Shri Rukmini Dhyan Mantra ( Skanda puran)
Devi Rukmini by Vishwaraj Singh
ॐ देवीमुन्नतपीठगां सुवसनां ताटङ्ककर्णां शुभां भास्वत्स्वर्णसुरेखितायुतमहावक्षस्थलां कामदाम् । हस्तस्वर्णकरण्डकां कटितटप्रान्तैकपाणिं वरां श्रीमद्विठ्ठलचित्तचौर्यचतुरां श्रीरुक्मिणीं तां भजे ॥
ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् । सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥
ॐ सिञ्जन्नूपुरशोभिपादकमलां मन्दास्मितोद्यन्मुखीं कञ्जाक्षीं कुचभारभीरुविलसन्मध्यां क्वणत्कङ्कणाम् । शम्भ्वाद्यैः परिसेवितां सुवसनां जाम्बूनदालङ्कृतां अम्बां तां प्रणतोऽस्मि कृष्णरमणीं लम्बालकां रुक्मिणीम् ॥
Others
Shri Sudarshan Chakra Dhyan Mantra ( As per Ahirbudhya Samhita)
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् । शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ॥
शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन् बिभ्राणं वज्रखेटं हलमुसललसत्कुन्तमत्युग्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥
Shri Sudarshan Dhyan Mantra ( As per Vihageshwar Samhita)
शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम् बिभ्राणं वज्रखेटौ हल मुसल गदा कुन्दमत्युग्र दंष्ट्रम् । ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम् ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
Shri Hayagriva Dhyan Mantra
विद्यामूर्तिमखण्डचन्द्रवलयश्वेतारविन्दस्थितं हृद्याभं स्फटिकाद्रिनिर्मलतनुं विद्योतमानंश्रिया । वामाङ्कस्थितवल्लभां प्रति सदाव्याख्यान्तमाम्नायवा- गर्थानादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ १॥
विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामण्डलो देवो दक्षिणपाणियुग्मविलसद्बोधाङ्कचक्रायुधः । वामोदग्रकरे दरं तदितरेणाश्लिष्य दोष्णा रमां हस्ताग्रे धृतपुस्तकस्स दयतां हंसो हिरण्यच्छदः ॥ २॥
Shri Hrishikesha Dhyan Mantra
चक्रपाशधरं देवं चन्द्रकोटिसमप्रभम् । मुक्ताभरणभूषाङ्गं हृषीकेशं विभुं भजे ॥
Narasimha Forms
Shri Narasimha Dhyan Mantra ( As per Narasimha Kavach )
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् । लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् । सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् । इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः । गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥
Shri Lakshmi Nrisimha Dhyan Mantra
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् । त्र्यक्षं चक्रपिनाकस्नाभयकरान्बिभ्राणमर्कच्छविं छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् । भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २॥
Shri Jwala Narasimha Dhyan Mantra
उज्ज्वलत्प्रलयानलाभमयुग्मनेत्रमनारतं भासुरं शिखिनः शिखाभिरुदग्रदंष्ट्रमुखाम्बुजम् । रक्षसां भयदं विकीर्णसटाकलापविभीषणं शङ्खचक्रकृपाणखेटकधारिणं नृहिरं भजे ॥
Shri Narasimha Dhyan Mantra ( As per Sharada Tilaka tantra)
कोपादालोलजिहवं विवृतनिजमुखं सोमसूर्याग्निनेत्रं पादादानाभि रक्तप्रभमुपरि सितं भिन्नदैत्येन्द्रगात्रम् । चक्रं शङ्खं सपाशाङ्कुशकुलिशगदादारणान्युद्वहन्तम् भीमं तीक्ष्णदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥
Shri Bhadra Narasimha Dhyan Mantra
शङ्खचक्रधरं देवं पीताम्बरधरं विभुम् ।
श्री-भूमि-नीलासहितं भजे भद्रनरंहरिम् ||
Shri Divya Narasimha Dhyan Mantra
तप्तहाटककेशान्तज्वलत्पावकलोचन ।
वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥
Other Incarnations and their consorts
Shri Kurma Dhyan Mantra
शङ्खचक्रधरं देवं वनमालाविराजितम् ।
भजे सर्वधरं धीरं कूर्मरूपं जनार्दनम् ॥
Shri Parashurama Dhyan Mantra ( Rudrayamal Tantra)
सात्त्विकं श्वेतवर्णं च भस्मोद्धूलितविग्रहम् । अग्निहोत्रस्थलासीनं नानामुनिगणावृतम् । कम्बलासनमारूढं स्वर्णतारकुशाङ्गुलिम् । श्वेतवस्त्रद्वयोपेतं जुह्वन्तं राममाश्रये ॥
Shri Shweta Varaha Dhyan Mantra
ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं शङ्खारिसर्ववरदाभययुक्तबाहुम् । ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥
Shri Varaha Dhyan Mantra ( As per Sharada Tilaka Tantra)
आपादं जानुदेशाद्वरकनकनिभं नाभिदेशादधस्तान् मुक्ताभां कण्ठदेशात्तरुणरविनिभं मस्तकान्नीलभासम् ।
ईडे हस्तैर्दधानं रथचरणदरौ खड्गखेटौ गदाख्यां शक्तिं दानाभये च क्षितिचरणलसद्वंष्ट्रमाद्यं वराहम् ॥
Shri Dharitri Dhyan Mantra
श्यामां विचित्रांशुकरत्रभूषणां पद्मासनां तुङ्गपयोधरानताम् ।
इन्दीवरे द्वे नवशालिमञ्जरीं शुकं दधानां वसुधां भजामहे ॥
लक्षमेकं जपेन्मन्त्री धराहृदयमादरात् । ससर्पिषा पायसेन जुहुयात्तद्दशांशतः ॥
Shri Vaman Dhyan Mantra
ज्योतिर्मयं दण्डधरं रक्ताभं छत्रधारिणम् । यज्ञसूत्रधरं देवं वामनं सततं भजे ॥
Shri Dadhivaman Dhyan Mantra ( As per Sharada Tilaka tantra)
मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं भृङ्गाकारैरलकनिकरैः शोभि वक्त्रारविन्दम् । हस्ताब्जाभ्यां कनककलशं शुद्धतोयाभिपूर्णं दध्यन्नाढ्यं कनकचषकं धारयन्तं भजामः ॥
Shri Srinivas ( Venkateswara) Dhyan Mantra
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
श्रीवेङ्कटेशदयितां श्रियं घटकभावतः । समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये ॥ २॥
श्रीमन् शेषगिरीश ते पदयुगे मञ्जीरसंराजिते सक्तं मानसमस्तु मे तव शुभे जङ्घे सुजान्वञ्चिते । रम्भाकान्तिहरोरुकाण्डयुगलीं प्राप्तं कटीं सेवते काञ्चीनूपुरकिङ्किणीपरिचितां पीताम्बरालङ्कृताम् ॥ ३॥
नाभीपङ्कजतुन्दबन्धनलसद्दिव्योदरापाश्रयं पद्माकौस्तुभहारमाल्यसुभगां वक्षस्स्थलीं गाहते । सर्वाभीष्टवरप्रदानकटिबन्धाब्जाग्र्यचक्रोज्ज्वलैः हस्तैः श्लिष्टमनल्पभूषणयुतैः कण्ठं समालम्बते ॥ ४॥
मुक्तारत्नविराजिकुण्डललसद्गण्डं सुबिम्बाधरं नासाशोभि दयार्द्रलोचनयुगं सुभ्रूर्ध्वपुण्ड्रोज्ज्वलम् । वक्त्रं रत्नललाटिकापरिलसत्फालं सतृष्णं पिबत् मौलौ रज्जति माल्यशोभिनि महारत्नाभिषेकोज्ज्वले ॥ ५॥
भूयो वक्त्रमनुप्रसर्पति ततः कण्ठावसक्तं भुजैः श्लिष्टं वक्षसि पद्मया परिचिते लग्नं पुनर्मध्यमम् । कट्यूरुद्वयजानुषु प्रविततं जङ्घावसक्तं पदोः । प्राप्तं तिष्टति तत्र गात्रसुषमासक्तं वृषाद्रीश ते ॥ ६॥
Shri Dhanvantari Dhyan Mantra
शङ्खं चक्रमुपर्यधश्च करयोर्दिव्यौषधं दक्षिणे वामेनान्यकरेण सम्भृतसुधाकुम्भं जलौकावलिम् । बिभ्राणः करुणाकरः शुभकरः सर्वामयध्वंसकः क्षिप्रं नो दुरितं छिनत्तु भगवान्धन्वन्तरिः पातु नः ॥ श्रीमान् कलयतु शश्वत्क्षेमं धन्वन्तरिः सतां देवः । कामं सुरवरतत्यै कामितदानाय दुग्धवार्धिभवः ॥ १॥
करधृतदिव्यसुधावरकलशः परिपूर्णषड्गुणः श्रीशः । परिहृतभक्तक्लेशः सुरुचिरतरकान्तवरवेषः ॥ २॥
हृतवति करधृतकलशे दितिसुतमुख्यैः प्रतिक्रियां तेषाम् । व्यतनुत निर्जरतत्यै योषिद्रूपो विभज्य पीयूषम् ॥ ३॥
विश्रुतविलसत्कीर्तिः भक्तानन्दप्रदानवरमूर्तिः । निस्तुलकरुणाशक्तिः भात्येष श्रीहरिः स्वयं जगति ॥ ४॥
आनतसज्जनपाता मौनिप्रवरार्तिजातसंहर्ता । ज्ञानिप्रवरनिरन्तरगानार्हात्मीयनित्यसद्वृत्तः ॥ ५॥
आयुर्वेदाब्धिसारं निखिलमुनिजनस्तोमभूत्यै विवृण्वन् भूयः पद्मासनाद्यैरुरुतरवचसा संस्तुतस्सोऽवतान्नः । प्रेयान्क्षीराब्धिजायाः सुतरुमणिसुधेन्द्वात्मनैकोऽखिलेभ्यः भक्तेभ्यो दातुमीष्टे भुवि शमिह गदापायदः संस्मृतो यः ॥ ६॥
क्षीराब्धेर्मथ्यमानादमृतमभिलषद्बुद्धिभिर्वै बुधौघैः उत्तीर्णः पीतवासा घनरुचिररुचिर्विश्वसन्त्राणहेतोः । दोर्भिर्बिभ्रच्चतुर्भिर्जलभवमभयं चामृतं शस्त्रयन्त्रं योऽसौ धन्वन्तरिर्नः सकलगदभयादादिदेवः सदाऽव्यात् ॥ ७॥
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥ ८॥
पृष्ठे कूर्मतया चतुर्भुजतया दोर्मण्डले मन्दरं रुध्वा क्षीरसमुद्रमोषधिभृतं निर्मथ्य निष्पादितैः । आनीतैरमृतैर्भिषक्तमतया योषित्तया पायितैः देवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे ॥ ९॥
क्षीराब्धेरुदगाः - धृतवानमृतघटं आयुष्यं जगते वितरीतुं श्रीसहज धन्वन्तरिरूप - जय जगदीश हरे ॥ १०॥
Shri Harihara Dhyan Mantra
ध्यायेदुमापतिरमापतिभाग्यपुत्रं वेत्रोज्ज्वलत्करतलं भसिताभिरामम् । विश्वैकविश्ववपुषं मृगयाविनोदं वाञ्छानुरूपफलदं वरभुतनाथम् ॥ आश्रयामकोमलविशालतनुं विचित्र- वासो वसानमरुणोत्पलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
Shri Partha Sarathi Dhyan Mantra
मुरान्तकं सुरार्चितं धरापतिं परात्परं निरामयं जराहरं करेण वेत्रधारिणम् । सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥ १॥
भूपेन तेन मुचुकुन्द महात्मना यः संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे । शङ्खेन चारुतरवेत्रधृतेन दोष्णा संक्षोभयन्तमखिलं भुवनं तमिडे ॥ २॥
पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम् गीतामृतेन शमितं किल येन सद्यः । वेदान्तवेद्यमनघं पुरुषं पुराणम् तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥ ३॥
Shri Tulsi Dhyan Mantra
ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ॥
किरीटहारकेयूर् कुण्डलादयैर्विभूषिताम् । धवलांशुकसंवीतां पद्मासननिषेविताम् । देवीं त्रैलोक्य जननीं सर्वलोकैकपावनीम् ॥
अस्मिन् क्षुपे श्री तुलसीं ध्यायामि । सर्वदेवमये देवि सर्वदे विष्णुवल्लभै ।।
आगच्छ मम गेहेऽस्मिन् नित्यं सन्निहिता भव । अस्मिन् क्षुपे श्री तुलसीं आवाहयामि ।।
रत्नसिंहासनं चारु भुक्तिमुक्तिफलप्रदे । मया दत्तं महादेवि सङ्गृहाण सुरार्चिते ॥
Comments
Post a Comment