Bhramaramba
Introduction
Bhramaramba or Bhramari is a form of Adishakti. Her temple is situated at Sri Shailam, in Andhra Pradesh. It is a Shaktipeeth. It belongs to Ashtadas Mahashaktipithas. Her bhairav is Mallikarjun .
Iconography
She has two hands. Her face is beautiful. She is circled with Bees .
Legend
Once there was a demon named Arun. He was booned that 1-2-3-4-5-legged animals cannot kill him. So he boasted . He attacked to Indra and other demigods . They asked Shiva for help. Shiva and Parvati took Mallikarjun and Bhramari forms. Bees are 6-leged. Those Bees killed him.
Bhramaramba Ashtakam
Bhramaramba Ashtakam in Devnagari script
।। श्री भ्रमराम्बा अष्टकम् ।।
चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचर जगत्संरक्षिणीं तत्पदाम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥१।।
कस्तूरी तिलकाञ्चितेन्दुविलसत्प्रोद्वासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरतिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥२।।
राजन्मत्तमरालमन्दगमनां राजीवपत्रे क्षणांराजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् । राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीश्री शैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥३।।
षट्ताराङ्गणदीपिकां शिवसती षड्वैरिवर्गापां षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् । षड्चक्राञ्चितपादुकाञ्चितपदा षड्भावनां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥४।।
श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं गानासक्तमनोजयो वनलसद्गन्धर्वकन्यादृताम् दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृत श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥५।।
लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं सेवायातसमस्त देववनितासीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमा भण्डासुरच्छेदिनीं श्रीशैलस्थलवासिनीं भगवती श्रीमातरं भावये ॥६।।
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मुन्याराधनमोदिनीं सुमनसां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयेकर्पूरागरुकुंकुमांकितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षी करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये।।७।।
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् । गङ्गागौतमगर्गसंनुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥९॥
Comments
Post a Comment