Posts

Shaktipeethas in Devi Geeta

Image
  Shaktipeethas in Devi Gita   श्रीदेव्युवाच -  सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।  उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥  तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।  शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥  कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।  मातुःपुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥  तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।  हिङ्गुलायां महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥  शाकंभर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।  श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥  विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।  अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८॥  भीमादेव्याः परं स्थानं विमलास्थानमेव च ।  श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव च ॥ ९॥  नीलांबायाः परं स्थानं नीलपर्वतमस्तके ।  जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥  गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।  मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदंबरे ॥ ११॥   वेदारण्यं ...

Shaktipeethas in Lalitopakhyanam

Image
  Shaktipeethas in Brahmanda Puran  ततः पीठानि पचाशदेकं च क्रमतो न्यसेत् ।  कामरूपं वारणासी नेपाल पौण्ड्रवर्धनम् ॥ वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ।  आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम् ॥  कैलासं भृगुनगरं केदारं चन्द्रयुक्पुरम् ।  श्रीपीठ चैकवीरं च जालन्धं मालवं तथा ॥ कुळानं देविकोर्ट व गोकर्ण मारुतेश्वरम् ।  अट्टहासं च विरजं राजगेहमहापथे ॥   कोलापुरमेलापुरं कालेश्वरं जयन्तिका ।  उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥  उड़ीशं च प्रयागं च षष्टिमायापुरं तथा ।  गौरीशं मलयगिरिं श्रीशैलं मेरुमेव च ॥  पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् ।  स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥   पुरोड्याणं तथा छाया छत्रमाहुर्मनीषिणः । लिपिक्रमसमायुक्त लिपिस्थानेषु विन्यसेत् ॥

Shaktipeethas in Brihad Nila Tantra

Image
  Śaktipīthas in Brihad  Nila Tantra ( वृहद नील तन्त्रस्य शक्तिपीठाणि )  Introduction:-  Shaktipeethas are the holy pilgrimages of Shaktism. We have found a list of Shaktipeethas in Brihannila Tantra or Brihad Nila Tantra. These shlokas belong to the fifth Patala of Brihad Nila Tantra.                                                       [[ Artwork by Hrishikesh Deb ]]    Shaktipeethas in Brihad Nila Tantra कामेशा कामरूपे त्वं पूर्णाकाश्यां विमुक्तिदा । नेपाले पुण्यदा पुण्या सुवेशा पौन्ड्रवर्धने ॥ धर्मबुद्धिः सुधा चैव सुखदा पापमोचनी । पारस्ये परमानन्दा ब्रह्माणी कान्यकुब्जके ॥ पुण्याद्रौ च महापुण्या पूर्णा यज्ञफलेश्वरी । कात्यायन्यर्बुदे देवि धनदा शिववल्लभा ।। एका चैकाम्रके देशे सुरूपेशाम्रकेश्वरे । त्रिपुरे सुन्दरी दिव्यरूपाखिलमनोहरा ॥ कामकोटे महापीठे प्रमदा मदनालसा । कामेश्वरी रतिश्चैव भृगुपुर्यां ब्रज...
Image
  Ganga Devi Pictures