Posts

Showing posts from November, 2023

Shaktipeethas in Devi Geeta

Image
  Shaktipeethas in Devi Gita   श्रीदेव्युवाच -  सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।  उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥  तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।  शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥  कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।  मातुःपुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥  तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च ।  हिङ्गुलायां महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥  शाकंभर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।  श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥  विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।  अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८॥  भीमादेव्याः परं स्थानं विमलास्थानमेव च ।  श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव च ॥ ९॥  नीलांबायाः परं स्थानं नीलपर्वतमस्तके ।  जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥  गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।  मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदंबरे ॥ ११॥   वेदारण्यं ...